विश्वविद्यालयस्य जालस्थलस्य परिचयपुस्तिकायाः च लोकार्पणम्

बेङ्गलूरुनगरस्य कर्णाट्कराज्य-उन्नतशिक्षणपरिषदः सभाङ्गणे मेमासस्य १६ दिनाङ्ग्के प्रवृत्ते समारम्भे प्रो. के एम् कावेरियप्पमहोदयः (कार्यनिर्वहणानिर्देशकः, कर्णाट्कराज्य-उन्नतशिक्षणपरिषत्) कर्नाटकसंस्कृतविश्वविद्यालयस्य अधिकृतस्य जालस्थलस्य (www.ksu.ac.in) अनावरणं कृतवान् । अस्मिन्नेव सन्दर्भे विश्वविद्यालयस्य परिचयपुस्तिकां प्रो. एस् सि शर्मामहाभागः (कुलपतिः, तुमकूरु विश्वविद्यालयः तथा उपाध्यक्षः, कर्णाट्कराज्य-उन्नतशिक्षणपरिषत्) लोकाय अर्पितवान् । कर्नाटकसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. मल्लेपुरं जि वेङ्कटेशवर्यः समारम्भस्य आध्यक्ष्यम् ऊढवान् ।

Comments are closed.