वनानि दहतो

वनानि दहतो वह्नेस्सखा भवति मारुतः |
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ||

यदा बृहद्रूपः अग्निः अरण्यं दहति, तदा वायुः तस्य साह्यं करोति । स एव वायुः लघुदीपस्य नाशं करोति । दुर्बलस्य कः वा साहाय्यं करोति?

Comments are closed.