दुर्बलस्य बलं राजा

दुर्बलस्य बलं राजा, बालानां रोदनं बलम् |
बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ||

 

राजा दुर्बलानां रक्षणं करोति । रोदनेन बालाः स्वाभीष्टं साधयन्ति । मूर्खः मौनम् आश्रित्य गौरवं रक्षितुं शक्नोति । चोराः अनृतवचनेन आत्मरक्षणं कुर्वन्ति ।

Comments are closed.