सन्दर्शकप्राध्यापकाः

विद्वान् हेच् वि नागराजरावः

जन्मदिनम् – १०/डिसेम्बर्/१९४२
जन्मस्थानम् – सोमेनहल्लि, कोलारमण्डलम्, कर्नाटकः
पितरौ – स्थैर्यलक्षम्मा, वेङ्कटनारायणप्प च

शिक्षणम् – मैसूरुसंस्कृतकलाशालायां व्याकरणे अलङ्कारे च विद्वात्परीक्षायाम् उत्तीर्णः । मैसूरुविश्वविद्यालयतः seattle (USA) विश्वविद्यालयत: च एम्.ए कृतवान् वर्तते ।

कार्यस्थानम् – ज्येष्ठशोधसाहाय्यकृत्त्वेन प्राच्यशोधकेन्द्रे, मैसूरु
अस्य योगदानम् – त्रीणि नाटकानि रचितानि – विदुलपुत्रीयम्, समुद्यत, भारतीयविद्याभवनतः प्रकाशितः दाम्पत्यकलहः च । द्वे लघुकथे – वरान्वेषणं मालविका च । एका कादम्बरी – क्षणविमुक्तिः । शारदादर्शनं नाम प्रवासकथनम् । उपाख्यान-युग्मकं इति गद्यम् । सिद्धगङ्गायाः शुद्धचेतनः – इति सिद्धगङ्गामठस्य शिवकुमारस्वामिनां जीवनवृत्तम् ।

नागराजराव् महोदय: वेङ्कटाध्वरिविरचितसुभाषितकौस्तुभम्, नीलकण्ठदीक्षितविरचितम् अन्यपदेशशतकम्, आनन्दसागरस्तवं च परिष्कृतवान् । अस्य वेदवेदाङ्गसम्बद्धं शोधपत्रं भारतीयविद्यभवनतः (बेङ्गलूरु, २००५) प्रकाशितं विद्यते । अनेन भाषान्तरानुवादकत्वेन अपि उत्तमं कार्यं कृतम् । एषः हेच्.एम् नायकस्य कन्नडभाषायां विद्यमानस्य ‘नम्म मनेय दीप’ इति पुस्तकस्य संस्कृतभाषान्तरीकरणम् ‘अस्माकं गृहस्य दीपः’ इति नाम्ना अकरोत् । सुप्रसिद्धलेखकस्य एस्.एल् बैरप्पा महोदयस्य कन्नडभाषयां विद्यमानां कादम्बरीं सार्थः इति ग्रन्थस्य अनुवादम् अकरोत् । एषः प्रसिद्धहिन्दीलेखकस्य प्रेमचन्दस्य लघुकथाः विपञ्चिका इति नाम्ना अनुवादमकरोत् । अनेन अनेके कृतय: संस्कृतभाषातः कन्नडभाषां प्रति भाषान्तरीकृता: । ताः च अप्पयदीक्षितस्य वरदराजस्तवः, नीलकण्ठदीक्षितस्य रामयणसारसङ्ग्रह:, रघुवीरस्तुतिः च, गौरीशङ्करस्वामिनः भवनलहरी, शङ्कराचार्याणां शिवपादादिकेशान्तस्तोत्रम् ।

एषः वेदव्यासप्रशस्तिना शेखावतीसंस्कृतविश्वविद्यालयतः सम्मानितः विद्यते । एषः सन्दर्शकप्राध्यापकत्वेन चिकागोविश्वविद्यालये, विस्कोन्सिन्-विश्वविद्यालये, जेरुस्लेम्-विश्वविद्यालये च कार्यम् अकरोत् ।

एष: सम्प्रति कर्नाटकविश्वविद्यालये सन्दर्शकप्राध्यापकत्वेन कार्यं करोति ।

Comments are closed.