रालपल्लि अनन्तकृष्णशर्मा

जन्म – २३/१/१८९१, रालपल्ली, आन्धप्रदेशेषु अनन्तपुरमण्डले विद्यमानः ग्रामः ।

गुरुपरम्परा – कृष्णब्रह्मतन्त्रयतीन्द्रः

पुस्तकानि –
संस्कृतपुस्तकानि –

एतेन एकं चम्पूकाव्यं, एकं खण्डकाव्यं, गीतसङ्ग्रहः च लिखितः वर्तते । श्रीमहिशूरराज्यादर्शः (१९२५), भार्गविपञ्चविंशतिः (१९२६), अनन्तभारती (१९२७) एतानि तस्य अन्यानि पुस्तकानि ।

अनुवादः – एषः कालिदासस्य रघुवंशं भासस्य स्वप्नवासवदत्तं च अनूदितवान् वर्तते ।

कन्नडपुस्तकानि –
एतस्य कन्नडकाव्येषु तारादेवी (१९११), मीराबाई (१९१३), शमीपूजे इत्यादीनि अन्तर्भवन्ति । लीलावती इति कादम्बरी, गानकले, साहित्य मत्तु जीवनकले इति विमर्शः अपि तस्य अन्ये ग्रन्थाः । कन्नडभाषातः संस्कृतभाषां प्रति केषाञ्चन ग्रन्थानामनुवादः अपि कृतः ।

तेलुगुपुस्तकानि –
वेमन (विमर्शः, १९२९), गाथासप्तशतीसारमु (प्राकृतभाषातः अनुवादः, १९३२), तालपकसन्किर्-तनलु (परिष्कृतम्), श्रीमदान्धभागवतम् (१९५३, परिष्कृतम् ), सारवतलोकमु (विमर्शः १९५४), तेनालि रामकृष्णविरचितपाण्डुरङ्गमाहात्म्य (परिष्कृतम्, १९६७)

प्राप्तोपाधयः –
अनेन अनेके उपाधयः ‘गानकलासिन्धु’ (मैसूरु म्यूसिक् सेशन् १९६१), गानकलाप्रपूर्ण (आन्धप्रदेशसङ्गीतनाटकाकाडमी), सङ्गीतकलारत्न ( बेङ्गलूरुगायनसमाज, १९७३), वेङ्कटेश्वरविश्वविद्यालयतः D.Litt पदवी, तिरुमलतिरुपतिदेवस्थानस्य आस्थानविद्वान् इत्यादयः प्राप्ताः ।

Comments are closed.