ई-ग्रन्थालयः

(हस्तगतः विश्वकोशः)

गणकप्रपञ्चे संस्कृतम्
(e-textरूपेण उपलभ्यस्य संस्कृतवाङ्मयस्य द्वारा शीघ्रतया विषयान्वेषणविधानम्)
भूमिका:
सर्वासु विद्यासंस्थासु, विशिष्य विश्वविद्यालये ग्रन्थालयः प्रमुखम् अङ्गम् । उत्तमस्य ग्रन्थालयस्य निर्माणं, तस्य संरक्षणं, जिज्ञासुभ्यः ईप्सितपुस्तकवितरणं, तत्सम्बद्धानां विवरणानां रक्षणम् – इत्यादि सर्वमपि कष्टसाध्यमेव । अस्यां स्थितौ, आधुनिके सङ्गणकयुगे इ-ग्रन्थालयः औपयोगिकः ।

इ-ग्रन्थालयो नाम कः?
electronic इत्यस्य सङ्क्षिप्तरूपम् e इति । सङ्गणकयन्त्रे उट्टङ्कितानां ग्रन्थानाम् आलयः इ-ग्रन्थालयः । इ-ग्रन्थालये स्थलापेक्षा न्यूना, संरक्षणाव्ययोऽपि न्यूनः । किञ्च, एक एव ग्रन्थः अनेकैः युगपत् उपयोक्तुं शक्यः ।

संस्कृते इ-ग्रन्थालयः
सङ्गणकक्षेत्रे संस्कृतकार्यं चिरकालात् प्रचलति । विश्वस्य भिन्नेषु प्रदेशेषु विकीर्णाः संस्कृताभिमानिनः आत्मसन्तोषार्थं, सारस्वतसेवार्थं, विविधयोजनाङ्गतया वा संस्कृतवाङ्मयस्य अपूर्वकृतीः उट्टङ्क्य अन्तर्जाले समस्थापयन् । विना लाभोद्देशं शोधकार्यार्थम् इमे ग्रन्थाः मुक्तरूपेण लभ्यन्ते ।
कर्नाटकसंस्कृतविश्वविद्यालयेन मानितं पूर्णप्रज्ञविद्यापीठं बहुभ्यः वर्षेभ्यः एवम् उपलभ्यमानानां कृतीनां सङ्ग्रहे निरतं वर्तते। सहस्रशः संस्कृतग्रन्थाः सङ्गृहीताः सन्ति । एनं सङ्ग्रहम् आधारीकृत्य इ-ग्रन्थालयमेकम् आरब्धुं कर्नाटकसंस्कृतविश्वविद्यालयः प्रयतमानः वर्तते । इदं तु प्रथमं पदम् । अन्याभिरपि अनेकाभिः व्यक्तिभिः संस्थाभिश्च एतादृशः सङ्ग्रहः कृतः स्यात् । तादृशां सर्वेषाम् एकीकरणं संस्कृतक्षेत्रे महते लाभाय भविष्यति ।

इ-ग्रन्थालयस्य उपयोगः
१. सम्प्रति इ-ग्रन्थालये चतुःसहस्राधिकाः ग्रन्थाः सन्ति । वेद-उपनिषद्-वेदाङ्ग-चतुर्दशविद्यास्थानप्रभृतिभिः प्राचीनभारतस्य ज्ञानविज्ञानैः सम्बद्धाः, अद्य पुस्तकरूपेण अनुपलब्धाः अनेके अमूल्यग्रन्थाः अत्र उपलभ्यन्ते । एते सर्वेऽपि ग्रन्थाः सहस्रेभ्यो वर्षेभ्यः प्राग् विरचिताः इत्यतः अस्मिन् विषये ‘कापिरैट्’ समस्या न विद्यते ।
२. सङ्गणकस्य सौलभ्यानि उपयुज्य सुलभतया एतेषु ग्रन्थेषु अस्मदभीष्टं विषयम् अन्वेष्टुं शक्यते । उदा: लक्षश्लोकात्मके महाभारते कुत्र कुत्र कृषेः उल्लेखः वर्तते इति अल्पीयसि समये अन्वेषणं कर्तुं शक्यते ।
३. इ-ग्रन्थालयद्वारा अन्यैः क्षेत्रैः सह संस्कृतस्य संयोजनरूपं महत्कार्यं साधयितुं शक्यते । अनेन अस्य विश्वविद्यालयस्य स्थापनात् प्राग् उत्थितानां प्रश्नानाम् आक्षेपाणाञ्च उत्तरं लभेत । समाजविज्ञान-आरोग्य(आयुर्वेद)-राजनीति-शिक्षणादिषु क्षेत्रेषु संशोधननिरताः इ-ग्रन्थालयस्य साहाय्येन प्राचीनतमान् उल्लेखान् प्राप्य, तद्विषये विचार्य संशोधनस्य मौल्यवर्धनं साधयितुम् अर्हन्ति ।

भविष्यति इ-ग्रन्थालयस्य योजना
१. विद्यमानस्य सङ्ग्रहस्य अभिवृद्धिः
२. सम्प्रति अत्र बहवः ग्रन्थाः pdf-रूपेण विद्यन्ते । कालक्रमेण अन्वेषणानुकूल्यं कल्पयितुं ग्रन्थानां सज्जीकरणम् ।
३. राज्यस्य विविधस्थलेषु इ-ग्रन्थालयस्य उपलब्धिव्यवस्थाकल्पनम् ।
४. संस्कृतक्षेत्रे अस्य उपयोगं संवर्ध्य, तद्द्वारा संस्कृतसंशोधनस्य, विचारगोष्ठीनाञ्च मौल्यवर्धनम् ।

इ-ग्रन्थालयस्य उपयोगः कथम्?
भवद्भिः अभीप्सितस्य ग्रन्थस्य विषये ज्ञातुं अधोनिर्दिष्टसङ्क्तं प्रति ईमैल् प्रेषयतु । भवद्भिः जिज्ञासितं प्राप्तुं वयं साहाय्यं कुर्मः ।
ईमैल् – info.elib@gmail.com, skt.directorate@gmail.com
दूरभाषा – ०८० २६७०५५९६

Comments are closed.