कुलपतिसन्देशः

कुलपतीनां वचः

कर्णाटकसंस्कृतविश्वविद्यालयस्य जालपृष्ठम् इदानीं भवतां पुरतः विद्यते । संस्कृतसंस्कृत्योः सामरस्यसाधकः कर्णाटकसंस्कृतविश्वविद्यालयः सर्वकारस्य महता प्रयत्नेन २०१० तमे वर्षे आविरभवत् । प्राचीनज्ञानेन सह विज्ञानाविचारादियुक्तस्य आधुनिकज्ञानस्य संयोजनं संस्कृतविश्वविद्यालस्य अस्य उद्देश्यम् । संस्कृतं न केवलं भाषादृष्ट्या, अपि तु वैज्ञानिक-तात्त्विकदृष्ट्या अपि अवलोकनीयम् । इतरेषु विश्वविद्यालयेषु बोधनस्यैव प्राधान्यं दृश्यते, नात्र तथा । संशोधनस्य प्राधान्यम् । तदङ्गतया बोधनं तु भवत्येव । भारतीयपरम्परायाः इतिहासस्य अध्ययनं संस्कृतद्वारा करणीयम्। कन्नडसंस्कृतयोः सांस्कृतिकदीपानां शोधनं करणीयं विद्यते । प्राचीनभाषा संस्कृतं भारतस्य आधुनिकनिर्वहणशास्त्रदृष्टया अग्रस्थानं प्राप्तुयात् । तस्यां दिशि वयं सम्भूय प्रयतेम । कर्नाटके विद्यमानानां सर्वेषां संस्कृतविदुषां, संस्कृतकन्नडोभयभाषाकोविदानां च सहकारं स्नेहादरेण च अहं कामये । जालपुटमेतत् विश्वविद्यालयस्य कार्यक्रमाणां विषये समग्रं परिचयं ददाति । अनेन विश्वविद्यालयस्य समाजस्य सम्बन्धः वर्धताम् इति आशासे ।

Comments are closed.