ध्येयोद्देशाः

विश्वविद्यालयम् अधिकृत्य


कर्नाटकसंस्कृतविश्वविद्यालयः संस्कृतभाषायाः अभिवृद्धये कर्नाटकसर्वकारेण संस्थापितः । अस्याः देवभाषायाः अतिप्राचीनाः, उज्ज्वलाश्च वैज्ञानिक-साहित्यिक-सांस्कृतिकसम्प्रदायाः परम्पराश्च विद्यन्ते । गद्य-पद्य-नाटक-नाट्य-शिल्पकला-वर्णचित्र-ललितकला-वैद्यशास्त्र-तत्त्वज्ञान-क्षेत्रेषु अस्याः भाषायाः योगदानं भारतीयविद्वद्भिः एतावता कालेन यावत् साधितं, तत्तु असदृशम् ।

बहोः कालात् महता यत्नेन कर्नाटकसंस्कृतविश्वविद्यालयः २०१०तमे वर्षे संस्थापितः । संस्कृतभाषायाः साहित्यस्य च अध्ययनं मैसूरुमहाराजैः महत्प्रोत्साहं प्रापत् । १५० वर्षेभ्यः प्राक् आरब्धया श्रीमन्महाराजसंस्कृतमहापाठशालया सह अनेकाः पाठशालाः राज्येऽस्मिन् संस्कृतशास्त्रपाठनरताः सन्ति । शतशः वेदसंस्कृतपाठशालाः अपि राज्ये क्रियाशीला वर्तन्ते । एताः सर्वाः पाठशालाः सम्मेल्य, काञ्चन समानशिक्षणव्यवस्थां निर्माय, राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु संस्कृतसंशोधनस्य औन्नत्यं साधयितुम्, छात्रेभ्यः अध्यापकेभ्यश्च अवकाशाधिक्यं कल्पयितुं च विश्वविद्यालयोऽयं समारब्धः ।

कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रधानतया चत्वारि अङ्गानि विद्यन्ते –

१. बोधनाङ्गम्
२. संशोधनाङ्गम्
३. प्रसाराङ्गम्
४. प्रशासनाङ्गं चेति ।

एतद्द्वारा विश्वविद्यालयस्य क्रियाशक्तिं संवर्ध्य, कर्णाटकराज्यस्य संस्कृतसम्बन्धिकार्याणि निर्वर्तयितुं प्रयत्नः प्रचलति ।

रामनगरमण्डलस्य मागडि जनपदे कुदूरुप्रदेशे विश्वविद्यालयपरिसरनिर्माणार्थं १०० एकर् परिमिता भूमिः सर्वकारेण प्रदत्ता वर्तते । सम्प्रति द्वे घटकमहाविद्यालये, दश अनुदानसहिताः नव अनुदानरहिताश्च महाविद्यालयाः कर्नाटकसंस्कृतविश्वविद्यालयसम्बद्धाः वर्तन्ते । स्नातकपूर्वसंस्कृतशिक्षणनिर्वहणार्थं विश्वविद्यालयेन संस्कृतशिक्षणनिर्देशनालयः संस्थापितः । निर्देशनालयेन मान्यताः प्राप्तवत्यः ३५० अधिकाः संस्कृतपाठशालाः राज्ये सन्ति ।

ध्येयोद्देशाः शैक्षणिककार्याणि च

कर्नाटकसंस्कृतविश्वविद्यालयस्य ध्येयोद्देशाः एवंरूपेण सन्ति

१.               संस्कृतभाषायाः, साहित्यस्य, व्याकरण-साङ्ख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्तादिशास्त्राणां, वेदानां, जैनशास्त्रधर्मशास्त्रादीनां, पूरकशिक्षणस्य च बोधन-संशोधनयोश्च अत्युन्नतसंस्थारूपेण
कार्यनिर्वहणम् ।

२.               कर्णाटकराज्यस्य संस्कृतसाहित्यस्य विशिष्टानि गुणलक्षणानि मनसि निधाय वेदागमानां सजातीयसाहित्याध्ययनस्य साम्प्रदायिकपद्धतेः संरक्षणं, पोषणं, संवर्धनञ्च ।

३.               वेदेषु, उपर्युक्तेषु शास्त्रादिषु च निहितस्य ज्ञानराशेः महत्त्वस्य, आधुनिकजगति तस्य प्रायोगिकतायाश्च प्रसारः ।

४.

१.भगवद्गीताधारितं प्राशासनिकविज्ञानम्
२.योगाधारितं मानवमनश्शास्त्रम्
३.परिसरसमतोलनसम्बद्धम् आरोग्यसम्बद्धं च साम्प्रदायिकज्ञानम्
४.पुरातत्वशास्त्रम्
५.प्राचीनविज्ञानम्
६.आगमशास्त्रम्
७.आयुर्वेदः
८.विज्ञानमानविकशास्त्राणि
९.नटनकलाः
१०.ललितकलाः संवादविज्ञानं च
११.वेदाध्ययनं तथा वेदभाषाध्ययनम् इत्येतेषु अन्येषु च विज्ञानक्षेत्रेषु उन्नताध्ययन-संशोधनार्थम् अवसरप्रकल्पनं, तस्य निर्वहणं च ।

५.               वेदेषु शास्त्रेषु च ज्ञानसंवर्धनस्य प्रज्ञायाश्च उन्नतस्तरसाधने दृष्टानां सविवेचनानां तर्कसम्मतविधानानां वैज्ञानिकमनोभावानाञ्च प्रकटीकरणम् ।

६.               भारतीयज्ञानपरम्परायाः पुनरुज्जीवनम्, संवर्धनं च; वेदेषु संस्कृतसाहित्ये च विद्यमानानां वैज्ञानिकविचाराणां कृषि-खगोलशास्त्र-जीवशास्त्र-रसायनशास्त्र-मानवशास्त्र-तन्त्रज्ञान-न्यायशास्त्र-प्रशासन-गणित-लोहशास्त्र-भौतशास्त्र-सामाजिकविज्ञानक्षेत्रेषु समन्वयनं; आधुनिकविज्ञानस्य तन्त्रज्ञानस्य च अध्ययने योगस्य समन्वयश्च ।

७.               वेदानां प्रमाणभूतभाष्याणां च विषये जनजागरणम् ।

८.               समानध्येयोद्देशयुक्तानाम् अन्येषां विश्वविद्यालयानां संस्थानां च प्रयत्नस्य ऐक्यं साधयितुं, बलवर्धनार्थं च तादृशां वेद-संस्कृत-अध्ययनसंस्थानां संशोधनसंस्थानां च जालं विरच्य, परस्परं संवादादिसम्पर्कसाधनानां प्रकल्पनम् ।

९.               आधुनिकभारतीयभाषासु, विदेशीयभाषासु च संस्कृत-वेद-विचारसम्बद्धस्य साहित्यराशेः निर्माणम् ।

१०.            सर्वेषां वेदानां, शास्त्रग्रन्थानां, तत्सम्बद्धानाञ्च ग्रन्थानां सव्याख्यं कन्नडादिषु भाषासु अनुवादः, प्रकटनं च ।

११.            वेदपठनस्य, तत्सम्बद्धानां साम्प्रदायिकविधीनां ध्वनिरूपेण, ध्वनि-दृश्यरूपेण च संरक्षणम् ।

१२.            विश्वविद्यालये अन्तर-क्षेत्रीयाध्ययनस्य संशोधनस्य च प्रोत्साहनं; परस्परसौहार्दभावेन तत्सम्बद्धानां कार्याणां विश्वविद्यालयस्तरे प्रचालनार्थम् अवसरकल्पनम् ।

१३.            संस्कृतभाषायां प्राच्याध्ययनकेन्द्रनिर्माणं; तत्र अमूल्यानां हस्तप्रतीनां पुरातनकृतीनां च सङ्ग्रह-संरक्षणव्यवस्थाकल्पनं; सविमर्शं तासां कृतीनां सम्पादनं प्रकटनं च ।

१४.            उपलभ्यमानानां हस्तप्रतीनाम्, आकरग्रन्थानाञ्च सङ्गणकद्वारा डिजिटल्-रूपेण सङ्ग्रहः ।

१५.            विश्वविद्यालयेन, विभागैर्वा अत्युन्नतस्तरीयशोधपत्रिकाप्रकटनम् ।

१६.            प्राचीनज्ञानपद्धतीनाम् संवर्धनदृष्ट्या विचारगोष्ठी-सम्मेलन-कार्यागार-विद्वद्गोष्ठ्यादीनाम् आयोजनम् ।

१७.            विश्वविद्यालयस्य निर्वहणात् बहिर्भूतानां विद्यासंस्थानां संयोजितपाठशाला/ पाठशालारूपेण विश्वविद्यालयव्यवस्थायाम् अन्तर्भाव्य विशेषावकाशकल्पनम् ।

१८.            विश्वविद्यालयस्य प्राध्यापकैः, बोधकैः, विभागैः, विशेषसंशोधनासंस्थाभिः च तादृशीनां संयोजितमहापाठशाला /पाठशालानां बोधन-मार्गदर्शनप्रदानम् ।

१९.            विश्वविद्यालयस्य पूर्वोक्ताः ये ध्येयोद्देशाः, तत्सम्बद्धानां, प्रासङ्गिकाणां च इतरेषां कार्याणां निर्वर्तनम् ।

२०.            काले काले रूपितानां शासनानां द्वारा, विधीयमानानां नियमानां पालनम् अनुसृत्य च विविधाभ्यः विद्यासंस्थाभ्यः यत्किञ्चिदुद्दिश्य पूर्णरूपेण, भागशः वा मान्यतादानम्, तस्य निर्वहणम्, मान्यतायाः स्थगनं च ।

२१.            विश्वविद्यालयस्य ध्येयोद्देशानाम् उत्तेजनार्थं यानि कार्याणि आवश्यकानि, पूर्वोक्ताधिकारेषु प्रासङ्गिकानि तद्भिन्नानि वा, तेषां निर्वर्तनम् ।

२२.            शासनद्वारा विश्वविद्यालयस्य प्राधिकारत्वेन उद्घोषितानां निकायानां निर्वहणम् ।

२३.            विविधेषु शास्त्रेषु प्रौढसंशोधनकार्याणि निर्वर्तयितुं अध्ययनपीठानां संस्थापनम् ।


पूर्वोल्लिखितान् ध्येयोद्देशान् साधयितुं विश्वविद्यालयेन बहूनि शैक्षणिककार्याणि समारब्धानि सन्ति

१.     संस्कृतपाठशालासु, विश्वविद्यालयेषु च व्यवस्थायाः समीकरणं, बलवर्धनं च ।

२.     छात्रवृत्तिदानेन छात्राणां प्रेरणा ।

३.     पाठशालासु, विश्वविद्यालयेषु च उत्तम-ग्रन्थालयव्यवस्था ।

४.     विश्वविद्यालयेषु छात्रावासनिर्माणं, स्थानीय-धनदातॄणां साहाय्येन, सर्वकारस्य साहाय्येन च छात्रेभ्यः उत्तमरीत्या अशनवसनव्यवस्था ।

५.     मण्डलस्तरे, उपमण्डलस्तरे च छात्रद्वारा संस्कृतोत्सवाचरणं, संस्कृतप्रतियोगितानाम् आयोजनद्वारा छात्रेषु उत्साहपूरणम् ।

६.     प्रतिवर्षं विद्वन्मध्यमा-विद्वदुत्तमा-वेदशाखादिषु उत्तमैः अङ्कैः ये सर्वप्राथम्यं प्राप्नुवन्ति, तेभ्यः निधिद्वारा, पीठाधीशानां द्वारा सार्वजनिक-क्षेत्रेभ्यः च धनदानेन प्रोत्साहः, प्रमाणपत्रदानं च ।

७.     परिशिष्टवर्गीयाणां संस्कृताध्ययनाय प्रत्येक-रूपेण विशेषव्यवस्था ।

८.     छात्रेभ्यः संस्कृतगान-क्रीडास्पर्धानाम् आयोजनम् ।

९.     पाठ्यांशे आङ्ग्लभाषायाः सङ्गणकशिक्षणस्य च योजनं, काव्य-साहित्य-विद्वत्कक्ष्यासु अनिवार्यतया प्रकल्पनम् ।

१०.  प्रथमाकक्ष्याम् आ विद्वत्कक्ष्यायाः ये पाठ्यांशाः सन्ति, तेषां पाठ्यांशानां वैज्ञानिकपद्धत्या परिष्कारः, प्राचीनज्ञानम् आधुनिकज्ञानं चेत्युभयमपि यथा सम्मिलितं स्यात् तथा पाठ्यपुस्तकनिर्माणम् ।

११.  उत्तरकर्णाटके, हैदराबाद्कर्णाटके, उत्तरकन्नडे, दक्षिणकर्णाटके, मध्यकर्णाटके च संस्कृतस्य उन्नतसंशोधनकेन्द्राणाम् उद्घाटनं तत्र अध्ययनाय संशोधनाय च योग्यवातावरण-निमाणं, स्थानीयानां संस्कृताध्ययनसंस्थानां च सहयोगः ।

१२.  पञ्चाशतः वर्षेभ्यः प्रचाल्यमानासु प्राचीन-संस्कृतपाठशालासु निर्दिष्टकार्यक्रमाणाम् आयोजनम् । तासु पाठशालासु पीठोपकरणानां संस्कृतग्रन्थानां च व्यवस्थायै प्रोत्साहः ।

१३.  बि.ए, एम्.ए पदवीधराणां समाजे या आद्यता अस्ति, सा विद्वत्पदवीधराणाम् अपि यथा स्यात् तथा व्यवस्था ।

 

लाञ्छनं ध्येयवाक्यं च

Logo

कर्नाटकसंस्कृतविश्वविद्यालयस्य लाञ्छनस्य निर्माता कर्णाटकस्य श्रेष्ठः कलावित् श्रीमान् मुरलीधर वि. राथोड्वर्यः । अनेन निर्मितस्य लाञ्छनस्य परिकल्पना विशिष्टा वर्तते । विश्वविद्यालयस्य शीर्षकं देवनागरी-आङ्ग्ल-कन्नडलिपिषु अस्ति । संस्कृतभाषा, साहित्यं, ज्ञानं चैव अस्य विश्वविद्यालयस्य आधारभूतम् इति निरूपयितुम् अत्र देवनागरीलिपिः उपयुक्ता अस्ति । भारतीयभाषालिपीनाम् आधारभूता देवनागरी । इदानीन्तनानाम् औत्तरेयलिपीनाम् इयमेव आधारभूता वर्तते । प्राचीनकालादपि इयं लिपिः उपयुज्यमाना अस्ति । अयं संस्कृतविश्वविद्यालयः देवनागरीलिपिद्वारा संस्कृतभाषायाः श्रेष्ठतां निरूपयति । विश्वविद्यालयस्य वैशाल्यं विश्वबन्धुत्वं च आङ्ग्ललिपिः निरूपयति । अस्मिन् लाञ्छने कन्नडलिपिः अपि प्रयुक्ता वर्तते । अयं संस्कृतविश्वविद्यालयः कर्नाटकसर्वकारस्य स्वप्नशिशुः । इदं लाञ्छनं कर्नाटकस्य संस्कृतविदुषां महत्त्वं ज्ञानं च निरूपयति, कन्नडसंस्कृतयोः सामरस्यसम्पादनोद्देशं च द्योतयति ।

अस्मिन् लाञ्छने मयूरः चित्रितः वर्तते । मयूरः भारतस्य राष्ट्रपक्षी । अयं पक्षी सर्जनशीलतायाः सौन्दर्यस्य च प्रतीकम् अस्ति । अयं विश्वविद्यालयः ज्ञानवर्धनस्य कारणीभूतः इत्यतः मयूरपक्षिद्वारा श्रेष्ठं ज्ञानं सङ्केतितम् अस्ति । मानवस्य जीवनं ज्ञानसम्बद्धं स्यात् इति द्योतयति अयं मयूरः ।

महाभारतात् किञ्चन ध्येयवाक्यम् उद्धृत्य अस्मिन् लाञ्छने उपयुक्तम् अस्ति । तच्च ध्येयवाक्यं देवनागरीलिपौ वर्तते । ‘प्रज्वालितो ज्ञानमयः प्रदीपः’ इत्येतत् ध्येयवाक्यं ज्ञानस्य महत्त्वं प्रतिपादयति । प्राचीनज्ञानस्य, आधुनिकज्ञानस्य च सम्मेलनं भवतु इति अस्य आशयः । ज्ञानरूपदीपः सदा उज्ज्वला भवतु इति अंशः न केवलं देशकालसम्बद्धः, अपि तु देशकालातीतः सन् सदा प्रज्वलेत् इति अंशं द्योतयति इदं ध्येयवाक्यम् । दीपः सदा ज्वलति । किन्तु

Comments are closed.