मुम्मडि कृष्णराजः ओडेयर्

मुम्मडि कृष्णराजः ओडेयर्

मुम्मडि कृष्णराजः ओडेयर्

शासनम् – ३०/६/१७९९, २७/३/१८६८

जन्म – १४/७/१७९४ श्रीरङ्गपट्टणम्

मरणम् – २७/३/१८६८. मैसूरु

पूर्ववर्ती राजा – चामराजः ओडेयर् ८/ टिप्पुसुल्तान्

परवर्ती राजा –चामराजः ओडेयर्

वंशनाम – ओडेयर्

पिता – खास चामराजः ओडेयर् ९

माता – महाराणी केम्पनञ्जम्मण्णि

मुम्मडि कृष्णराजः ओडेयर् १८१० तमे वर्षे षोडशवर्षीयः यदा अभवत् तदा ए.हेच् कोले दिवान्पूर्णय्यस्य सकाशात् राज्यशासनं राज्ञे प्रादात् । राजा पितामह्याः सहाय्येन वञ्चितः, यतः सा १८१० तमे वर्षे एव मरणं प्राप्तवती, पूर्णय्यः अपि १८१२ तमे वर्षे मृतः अभवत् ।

संस्कृत्यर्थं योगदानम् –
मुम्मडी कृष्णराजः ओडेयर् मैसूरुराज्यस्य सांस्कृतिकवृद्ध्यर्थं कारणीभूतः । एषः लेखकः अपि आसीत् । श्रीतत्त्वनिधि सौगन्धिकापरिणय् इति कन्नडभाषापुस्तकमपि अलिखत् । तस्य आस्थाने अनेके लेखकाः आसन् ये आधुनिककन्नडगद्यस्य वर्धनार्थं योगदानम् अकार्षुः, इयं शैली तावत्पर्यन्तम् अनुस्रियमाणायाः चम्पूशैल्याः अपेक्षयाः भिन्ना वर्तते । अन्ये ग्रन्थाः तस्य काले लिखिताः एवं वर्तन्ते – केम्पुनारायणस्य मुद्रामञ्जूषा, यादवस्य कलावतीपरिणयः, वचनकादम्बरी । राजा अनेकासु भाषासु कुशलः आसीत्, वीणां वादयितुमपि समर्थः आसीत् । एषः फलकक्रीडासु परिणतः आसीत्, गञ्जिफाकलायाः वर्धने अस्य योगदानं महत् । फलकक्रीडानां सङ्ग्राहकः अन्वेषकः च अयम् अवर्तत ।

शिक्षणार्थं योगदानम् –
१८६१ तमे वर्षे मुम्मडि कृष्णराजः ओडेयर् शारदाविलास-आङ्लो-संस्कृतशालाम् अदघाटयत् । एतस्याः शालायाः शारादाविलासकलाशाला इति पुनर्नामकरणमपि अभवत् यत्र विज्ञाने पदवी प्राप्यते स्म ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>