चन्द्रशेखरभारतीस्वामिनः

चन्द्रशेखरभारतीस्वामिनः

चन्द्रशेखरभारतीस्वामिनः


स्वामिनां विषये – एते शृङ्गगिर्याः शारदापीठस्य ३४ उत्तराधिकारित्वेन ६ एप्रिल् १९१२ तमे वर्षे नियुक्ताः अभवन् । अन्तर्मुखिनः सन्तः शीघ्रमेव समाधिं प्राप्तवन्तः । दैविकप्रेरणया एतैः अनेकानि पद्यानि रचितानि । तेषु कानिचन एव भक्तानां सौलभ्यार्थं प्रकाशितानि वर्तन्ते ।

पुस्तकानि –
संस्कृतपुस्तकानि – पादवलम्बनस्तुतिः, नवरत्नमाला, त्रोटकस्तोत्रम्, श्रीमदाचार्येन्द्रस्तवः, आचार्यपादावलम्बनस्तुतिः, दत्तनवरत्नमालिका, दक्षिणामूर्तिमन्त्रमातृकास्तवः, श्रीसामाष्टकम्, षण्मुखभुजङ्गस्तुतिः, पञ्चदशीस्तुतिः, मीनाक्षिस्तुतिः, मीनाक्षिस्तोत्रम्, वानुतकरसमञ्जरी, श्रीशारदागीतम्, शारदाभुजङ्गम्, देशिकोत्कर्समञ्जरी, षण्मुखपञ्चरत्नसुतिः

स्वामिभिः अनेके शास्त्रीयग्रन्थाः लिखिताः तेषु शङ्कराचार्याणां विवेकचूडामणेः व्याख्यानमपि (भारतीयविद्याभवनतः प्रकाशितम्) अन्यतमम् । शङ्कराचार्याणां भाष्यम् अवलम्ब्य व्याख्यानमपि लिखितं वर्तते इति श्रूयते । इदं पुस्तकं न प्रकाशतामवाप ।

Comments are closed.