कर्नाटक सारस्वतोपासकाः

कर्णाटकराज्यस्य सुदीर्घे वाङ्मयेतिहासे अतिविशिष्टे योगदाने पात्रं वहन्तः अनेके महान्तः विद्यन्ते । इदं संस्कृतसाहित्येतिवृत्तं स्वातन्त्र्यपूर्वकालीनयुगस्य संस्कृतसाहित्येतिहासं समीचीनतया चित्रयति । किन्तु, स्वातन्त्र्यसङ्ग्रामस्य कालघट्टे प्रवृत्तस्य संस्कृतसाहित्यसर्जनस्य इतिवृत्तरचना सम्यक् न जाता । कालक्रमेण इदम् अन्धकारयुगमिव सम्पद्येत कदाचित् । अस्मात् कारणात् १८५०तः १९५० पर्यन्तम् एकस्य शताब्दस्य कालखण्डे कर्णाटकस्य विविधेषु प्रदेशेषु निवसतां संस्कृतवाङ्मयस्य महत्तां वर्धयितुं कारणीभूतानां महतां योगदानविषये, तेषां जीवनगाथाविषये च शतं पुस्तकानि प्रकाशनीयानि इति कर्णाटकसंस्कृतविश्वविद्यालयस्य आशयः । माननीयस्य कुलपतेः प्रा. मल्लेपुरं जि. वेङ्कटेशवर्यस्य मार्गदर्शने नेतृत्वे च एषा योजना विश्वविद्यालयेन स्वीकृता वर्तते । अनया योजनया संस्कृतवाङ्मयस्य नवेतिहासः निर्मितः भविष्यति । न केवलं तावत्, आधुनिकयुगेन सह गतशताब्दस्य सांस्कृतिकबन्धुतायाः मेलनं भविष्यति ।

इमानि शतं पुस्तकानि समाने १/८ डेम्मि आकारे न्यूनातिन्यूनं ४८ पृष्ठयुतम्, अधिकाधिकं ६४ पृष्ठयुतं च भविष्यति । सरलसंस्कृतभाषया पुस्तकानीमानि प्रकाश्यन्ते ।

Comments are closed.