श्री सिद्धलिङ्गेश्वरवेदसंस्कृत स्नातकस्नातकोत्तराध्ययनकेन्द्रम्

पृष्ठत:

केन्द्रस्य परिचयः

इयं वेदसंस्कृतपाठशाला १९ शतमानस्य अन्ते श्री अटविस्वामिभिः आरब्धा । अग्रिममठाधिपतिः श्री उद्दान शिवयोगिनः अधिकृतरूपेण १९१७ तमे वर्षे सिद्धलिङ्गेश्वरसंस्कृतपाठशालां प्रास्थापयन् । प्रथमम् अस्यां पाठशालायां १ अध्यापकः, १६ छात्राः आसन् । इदानीन्तनमठाधिपतीनां श्री श्री शिवकुमारस्वामिनां परिश्रमेण पाठशाला १९३८ तमे वर्षे कलाशाला समभवत् ।

अद्यत्वे अस्यां कलाशालायां प्राथमिकस्तरतः आरभ्य विद्वत्सरपर्यन्तं संस्कृतपाठः भवति । ६००० तः अधिकाः छात्राः अत्र पठन्ति । उपपञ्चाशत् प्राध्यापकाः विद्यन्ते । १९५५ तमे वर्षे कलाशालायाः नूतनभवननिर्माणम् अभवत् । १९७२ तमे वर्षे सुवर्णमहोत्सवस्य अङ्गत्वेन संशोधनकेन्द्रस्य अपि आरम्भः अभवत् । अस्मिन् भवने सभाङ्गणं मुद्रणालयश्च विद्यते ।

रजतमहोत्सवः १९४७ तमे वर्षे समीचीनतया समायोजितः, ‘किरण’ इति नाम्ना विभूषिता स्मरणपत्रिका अपि विमोचिता । सुवर्णमहोत्सवं १९७२ तमे वर्षे वज्रमहोत्सवं १९८२ तमे वर्षे आचार्य ‘सुरगङ्गा’ इति नामयुक्ता स्मरणपत्रिका विमोचिता । प्लाटिनम्महोत्सवं १९९७ तमे वर्षे आचार्य ‘अमृतवर्षिणी’ इति स्मरणपत्रिका विमोचिता । कलाशाला २००७ तमे वर्षे शतमानोत्सवम् आचरिष्यति, तथा च इयं भारतस्य प्रायः महती संस्कृतकलाशाला विद्यते । अस्मिन् वर्षे ६२६२ छात्राः पञ्चीकृतवन्तः ।

अस्याः कलाशालायाः प्रसिद्धाः छात्रचराः – विद्वान् एम्.जि नञ्जुण्डाराध्य, डा. जि मरुळसिद्धय्य, श्री शिवरुद्रस्वामीनः कागलवाडि मठः, डा. जि.एस् शिवरुद्रप्प, प्रो मल्लेपुरं जि. वेङ्कटेशः ।

प्रांशुपालः – विद्वान् जि.एस् चन्द्रशेखरय्य

पाठ्यमानपदव्यः


विश्वविद्यालयस्य पाठ्यक्रमाः बि.ए (विद्वन्मध्यमा), एम्.ए (विद्वदुत्तमा)

वेदाः – शुक्लयजुर्वेदः, कृष्णयजुर्वेदः

शास्त्राणि – अलङ्कारः, व्याकरणम्, नवीनन्यायः, शक्तिविशिष्टाद्वैतवेदान्तः

निर्देशनालयस्य पाठ्यक्रमाः  – प्रथमा , काव्यम्, साहित्यम्, वेदप्रथमः, वेदप्रवेशः, वेदमूलम्

आगमपाठ्यक्रमाः – प्रवरः प्रवीणः (कर्नाटकराज्यागमशिक्षणं बोधनसभा च द्वारा सञ्चालिता )

अध्यापकवर्गः

१. अलङ्कारशास्त्रम् –

  1. विद्वान् जि.सि. राजशेखरय्य, सहप्राध्यापकः
  2. विद्वान् एम्.आर्.शान्तकुमारः, सहप्राध्यापकः
  3. विद्वान् डि.एम्.मल्लिकार्जुनय्य, सहप्राध्यापकः
  4. विद्वान् हनुमन्तय्य, सहप्राध्यापकः
  5. विद्वान् के.एन्.वीरभद्रय्य, सहप्राध्यापकः
  6. विद्वान् सि.अश्वतप्प, सहप्राध्यापकः
  7. विद्वान् एन्.हेच्.गुरुप्रसादः, सहप्राध्यापकः
  8. विद्वान् रामकृष्णः, सहप्राध्यापकः

२. व्याकरण शास्त्रम् -

  1. विद्वान् एस्.ओ.नरसिंहः, प्राध्यापकः
  2. विद्वान् एस्.रेणुकाराध्य, सहप्राध्यापकः

३. नवीनन्यायशास्त्रम्

  1. विद्वान् एस्.एस्.निरञ्जनः मूर्ति, सहप्राध्यापकः

४. शक्तिविशिष्टाद्वैतवेदान्तः

  1. विद्वान् एस्.पि.सिद्धलिङ्गस्वामी, सहप्राध्यापकः

५. साहित्यविभागः

  1. विद्वान् डि.एस्.चन्द्रशेखरय्य, प्रांशुपालः
  2. विदुषी शोभा, साहित्यसाहाय्यकत्री

६. शुक्लयजुर्वेदः

  1. विद्वान् डि.बङ्गारगिरि, सहप्राध्यापकः

७. कृष्णयजुर्वेदः

  1. विद्वान् हेच्.एस्.प्रशान्तः, सहप्राध्यापकः

सौलभ्यम्


अस्यां कलाशालायां समीचीनः ग्रन्थालयः विद्यते । अस्मिन् ग्रन्थालये कन्नडभाषायाः, संस्कृतभाषायाः, आङ्लभाषायाः, हिन्दिभाषायाः च २०००० पुस्तकानि सन्ति । ग्रन्थालयेऽस्मिन् वेदः आगमः, पुराणम् व्याकरणम्, अलङ्कारः, न्यायः, वेदान्तः, दर्शनम्, ज्यौतिष्यम् इत्यादिविषयसम्बद्धानि पुस्तकानि सन्ति । ग्रन्थालयसम्बद्धवाचनालयः विद्यते यत्र कन्नडभाषायाः, संस्कृतभाषायाः, आङ्लभाषायाः, हिन्दिभाषायाः च प्रमुखपत्रिकाः उपलभ्यन्ते ।

अस्यां कलाशालायां निश्शुल्कच्छात्रावासः विद्यते, यत्र संस्कृतकलाशालायाम् अध्ययननिरतानां छात्राणां कृते निश्शुल्काशनवसनव्यवस्था विद्यते ।

समयसारिणी



वार्षिकसमयसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

विरामकालसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

कार्यक्रमाः कार्यकलापाश्च:


अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

सम्पर्कार्थः सङ्केतः



सङ्केतः
श्री सिद्धलिङ्गेश्वरवेदसंस्कृतस्नातकस्नातकोत्तराध्ययनकेन्द्रम्
सिद्धगङ्गा मठः, तुमकूरु – ५७२१०४


दूरभाषा:
- ०८१६-६५३१५६८, ९९०१४५८९०९

इ-मेल्

मार्गः

गूगल् देशालेख्यं द्रष्टुम् अत्र नुदन्तु ।

Comments are closed.