श्री श्रीमातासंस्कृत स्नातकस्नातकोत्तराध्ययनकेन्द्रम्

पृष्ठत:

केन्द्रस्य परिचयः




श्री श्रीमातासंस्कृतमहापाठशाला १९६२ तमे वर्षे वेदः, शास्त्रं, पुराणं, दर्शनं तत्त्वज्ञानम् इत्यादीनां शिक्षणम् आधारीकृत्य प्राचीनसंस्कृतेः कृते प्रोत्साहनं दातुमिच्छया स्थापिता अभवत् । १९६९ तमे वर्षे अनया संस्थया कर्नाटकशिक्षणप्रविभागस्य काव्यम्, साहित्यम्, वेदप्रथमः, वेदप्रवेशः एतान् प्रचालयितुं मान्यता लब्धा ।१९७९ तमे वर्षे शिक्षणप्रविभागेन दनसाहाय्यं प्राप्तम् । १९९२ तमे वर्षे वेदमूलम्, विद्वन्मध्यमः, विद्वदुत्तमः (अलङ्कारशास्त्रम्, व्याकरणम्, कृष्णयजुर्वेदः) कक्ष्याः शिक्षणप्रविभागस्य मान्यतया आरब्धाः।

प्रांशुपालः – विद्वान् रामचन्द्रः भट्

पाठ्यमानपदव्यः


विश्वविद्यालयस्य पाठ्यक्रमाः – बि.ए (विद्वन्मध्यमा), एम्.ए (विद्वदुत्तमा)

वेदाः – कृष्णयजुर्वेदः

शास्त्राणि – अलङ्कारः, व्याकरणम्, नवीनन्यायः

निर्देशनालयस्य पाठ्यक्रमाः – प्रथमा, काव्यम्, साहित्यम्, वेदप्रथमा, वेदप्रवेशः, वेदमूलम् (कृष्णयजुर्वेदः)

अध्यापकवर्गः

१. अलङ्कारशास्त्रम् –

  1. विद्वान् नागेशः, प्राध्यापकः
  2. विद्वान् गोपालः एन् भट्, सहप्राध्यापकः
  3. विद्वान् शङ्करः भट्, सहप्राध्यापकः

२. व्याकरणशास्त्रम् -

  1. विद्वान् रामचन्द्रः एन्. भट्, प्राध्यापकः
  2. विद्वान् वेंकटेशः, सहप्राध्यापकः

३. नवीनन्यायशास्त्रम्

  1. विद्वान् नरसिंहः.एस्.भट्, सहप्राध्यापकः

४. साहित्यविभागः

  1. विदुषी शरावती भट्, साहित्यसाहाय्यकत्री

५. कृष्णयजुर्वेदः

  1. विद्वान् गणेशः वि भट्, प्राध्यापकः

सौलभ्यम्


अस्यां कलाशालायां सहस्राधिकाः वेदः व्याकरणम्, अलङ्कारः, वेदान्तः, ज्यौतिष्यम्, दर्शनम्, धर्मशास्त्रम्, रामायणं महाभारतम्, काव्यम् इत्यादिसम्बद्धाः ग्रन्थाः सन्ति ।

अत्र निर्धनच्छात्रेभ्यः निश्शुल्कछात्रावासस्य व्यवस्था विद्यते । कर्नाटकसर्वकारः छात्राणाम् अर्हतानुगुणं छात्रवेतनं प्रयच्छति ।
कलाशालायां ८ सोपकरणानां सङ्गणकयन्त्राणां केन्द्रः विद्यते । अस्याः कलाशालायाः आवरणे उत्तमक्रीडाङ्गणमपि विद्यते, यत्र छात्राः क्रिकेट्, वालिबाल्, कबड्डि, चेस्, टेन्निस्, केरम्, को-को इत्यादिक्रीडाः क्रीडितुं प्रोत्साह्यन्ते ।

संस्कृतप्रवचनमाला, संस्कृतसम्भाषणशिबिरम्, आशुभाषणस्पर्धा, नाटकस्पर्धा, आकाशवाणीकार्यक्रमाः, वीथीनाटकम् इत्यादयः शिक्षणस्य अंशत्वेन आयोज्यन्ते ।

समयसारिणी



वार्षिकसमयसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

विरामकालसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

कार्यक्रमाः कार्यकलापाश्च:


अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

सम्पर्कार्थः सङ्केतः



सङ्केतः
श्री श्रीमातासंस्कृतस्नातकस्नातकोत्तराध्ययनकेन्द्रम्,
उम्मचिगि, एल्लापुर – ५८१३४७


दूरभाषा:
- ०८४१९-२५५५९०/२५५८७९, ९४८००१९१५२, ९४८०५६३३३९, ९४८१२७५६७३

इ-मेल् : umachagismscollege@gmail.com

मार्गः :

गूगल् देशालेख्यं द्रष्टुम् अत्र नुदन्तु ।

Comments are closed.