श्रीमेधादक्षिणामूर्तिवेदभवनसंस्कृत स्नातकस्नातकोत्तराध्ययनकेन्द्रम्

पृष्ठत:

केन्द्रस्य परिचयः

श्रीमेधादक्षिणामूर्तिवेदभवनसंस्कृतमहाविद्यालयः

गोकर्णक्षेत्रस्य ऐतिहासिकं पौराणिकं च महत्त्वम् अस्ति । अस्मिन् क्षेत्रे १८७९तमे वर्षे वे. होसमने शास्त्रिवर्येण श्रीमेधादक्षिणामूर्ति वेदभवन संस्कृतविद्यापीठः संस्थापितः, महर्षि दैवरातेन पोषितश्च । कान्पुरस्य भारतीय चतुर्धाम वेदभवन न्यासस्य श्री सत्यदेव ब्रह्मचारी इमां संस्थां न्यासरूपेण स्वीकृत्य तदानीन्तनराज्यपालस्य श्रीधर्मवीरस्य साहाय्येन सर्वकारस्य साह्यधनं शाश्वतमान्यतां च सम्पादयामास । सर्वकारस्य, दाण्डेली वेस्ट् कोस्ट् पेपर् मिल्स् स्ंस्थायाश्च साहाय्येन संस्थायाः स्वीयं भवनं निर्मापितवान् च । भवननिर्माणार्थं भूमिः शृङ्गेरीपीठाधीशैः श्रीमदभिनवविद्यातीर्थमहास्वामिभिः प्रदत्ता ।

१९७६तमे वर्षे चतुर्णां वेदानाम्, अलङ्कार-व्याकरण-नवीनन्याय-अद्वैतवेदान्तशास्त्राणां च कक्ष्याः प्रारब्धाः । प्रथमातः आरभ्य विद्वदुत्तमापर्यन्तं परीक्षार्थं कक्ष्याः चालिताः । न केवलं कर्णाटकेन, अपि तु महाराष्ट्र-ओडिशा-उत्तरप्रदेश-बिहारप्रभृतिभ्यः राज्येभ्यः, नेपालदेशाच्चापि छात्राः अत्र समागताः । इतः उत्तीर्णाः छात्राः अद्य जागतिकस्तरे उन्नस्थानेषु सन्ति, वेदशास्त्रप्रचारनिरताश्च सन्ति ।

२००३-२००४तमे वर्षे संस्थायाः १२५तमः वार्षिकोत्सवः सुसम्पन्नः । अस्याः पाठशालायाः छात्राः राष्ट्रस्तरीयवाक्प्रतियोगितासु सुवर्ण-रजत-कांस्यपदकविजेतारः सन्ति । १९८९तमे वर्षे भारतीयचतुर्धामवेदभवनन्यासः संस्थायाः दायित्वं कर्णाटकसर्वकाराय प्रादात् । ततः प्रभृति इयं कर्णाटकसर्वकारस्य सम्पूर्णस्वामित्वे वर्तते । सम्प्रति, १५५ छात्रा पाठशालायाम्, ६० छात्राः स्नातकस्नातकोत्तरकेन्द्रे च अधीयानाः सन्ति ।

प्रांशुपालः – विद्वान् के सत्यनारायणः

पाठ्यमानपदव्यः


विश्वविद्यालयस्य पाठ्यक्रमाः – बि.ए (विद्वन्मध्यमा), एम्.ए (विद्वदुत्तमा)

वेदाः – ऋग्वेदः, कृष्णयजुर्वेदः, सामवेदः (राणायनीयशाखा), अथर्ववेदः

शास्त्राणि – अलङ्कारः, व्याकरणम्, नवीनन्यायः, अद्वैतवेदान्तः

निर्देशनालयस्य पाठ्यक्रमाः – प्रथमा, काव्यम्, साहित्यम्, वेदप्रथमा,  वेदप्रवेशः, वेदमूलम्

अध्यापकवर्गः

१. व्याकरणशास्त्रम् –

  1. विदुषी शारदा जि हिरेगंगे, प्राध्यापिका

२. नवीनन्यायशास्त्रम् -

  1. विद्वान् के.सत्यनारायणः, सहप्राध्यापकः

३. सामवेदः

  1. विद्वान् सुब्राय सत्यनारायण भट् हरूरि, अतिथिप्राध्यापकः

४. साहित्यम्

  1. विदुषी निर्मला कृष्ण हीरे, साहित्यसाहाय्यकर्त्री

सौलभ्यम्


अस्याः संस्थायाः छात्रचराः रामचन्द्रापुरपीठाधीशाः श्रीराघवेन्द्रभारतीमहास्वामिनः छात्राणां कृते भोजनव्यवस्थाम् (अमृतान्नम्) कल्पितवन्तः सन्ति ।

समयसारिणी



वार्षिकसमयसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

विरामकालसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

कार्यक्रमाः कार्यकलापाश्च:


अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

सम्पर्कार्थः सङ्केतः



सङ्केतः
श्रीमेधादक्षिणामूर्तिवेदभवनसंस्कृतस्नातकस्नातकोत्तराध्ययनकेन्द्रम्
गोकर्ण, कुमट तालूकु, उत्तरकन्नड मण्डलम् – ५८१२३६

दूरभाषा: - ०८३८६-२५६१९२, ९४८१५८८७८८

इ-मेल् mdsc.gokarna@gmail.com, ksatyanarayanak69@gmail.com

मार्गः

गूगल् देशालेख्यं द्रष्टुम् अत्र क्लिक् करोतु ।

Comments are closed.