पूर्णप्रज्ञविद्यापीठसंस्कृतस्नातकस्नातकोत्तराध्ययनकेन्द्रम्

पृष्ठत:

केन्द्रस्य परिचयः


पूर्णप्रज्ञविद्यापीठसंस्कृतस्नातकस्नातकोत्तराध्ययनकेन्द्रं १९५६ तमे वर्षे उडुपीनगरस्य पेजावरमठाधीशै: श्रीविश्वेशतीर्थमहास्वामिभि: संस्थापितम् । विद्यापीठस्य कुलपतय: श्रीचरणा:, उपकुलपतिश्च प्रो. के टी पाण्डुरङ्गि महोदयः । १९७६ तमे वर्षे कर्णाटकसर्वकारेण संस्कृतपाठशालायाः मान्यता प्राप्ता । २०११ तमे वर्षे कर्नाटकसंस्कृत विश्वविद्यालयस्य मान्यताम् अवाप । अस्या: संस्थाया: प्रायश: ८०० विद्वांस: उत्तीर्णा: । विद्यापीठे ४० अध्यापका: सन्ति ।

प्रांशुपालः – विद्वान् ए हरिदासभट्

पाठ्यमानपदव्यः


विश्वविद्यालयस्य पाठ्यक्रमाः – बि.ए (विद्वन्मध्यमा), एम्.ए (विद्वदुत्तमा)

शास्त्राणि – अलङ्कारः, नवीनन्यायः, द्वैतवेदान्तः

निर्देशनालयस्य पाठ्यक्रमाः – प्रथमा, काव्यम्, साहित्यम्,

अध्यापकवर्गः

१. अलङ्कारशास्त्रम् –

  1. विद्वान् ए. गुरुप्रसादः, प्राध्यापकः
  2. विद्वान् एस्.वेङ्कटेशः देशपांडे, प्राध्यापकः
  3. विद्वान् अनन्तकृष्णः उप्पर्न, सहप्राध्यापकः
  4. विद्वान् तिरुमलः अलियास् जयतीर्थः, सहप्राध्यापकः

२. नवीनन्यायशास्त्रम् -

  1. डा.हेच्.सत्यनारायणः राव्, प्राध्यापकः
  2. विद्वान् श्रीरामः विट्टल, सहप्राध्यापकः
  3. विद्वान् ए.हरिदासः भट्, प्रांशुपालः

३. द्वैतवेदान्तः

  1. विद्वान् हेच्.पि.नागराजः, प्राध्यापकः

४. साहित्यविभागः

  1. विद्वान् पि. वेङ्कटेशः बायिरि, साहित्यसाहय्यकॄत्

सौलभ्यम्



विद्यपीठे अत्युत्तम: ग्रन्थालय: विद्यते, यत्र २०००० संस्कृतपुस्तकानि, ५००० इतरभाषापुस्तकानि, १२० पुरातनहस्तलिखितपुस्तकानि च सन्ति । छात्रावासद्वयं विद्यते, यत्र ८१ छात्रप्रकोष्ठाः सन्ति। अध्ययनसंशोधनार्थं गणकयन्त्रकेन्द्रद्वयं वर्तते । २०० x २०० पदमितं क्रीडाङ्गणं वर्तते । छात्रा: क्रिकेट्, कब्बडि, चतुरङ्गक्रीडा: क्रीडन्ति ।

समयसारिणी



वार्षिकसमयसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

विरामकालसारिणी

अस्य पृष्ठस्य निर्माणकार्यं प्रचलति । सम्बद्धविषयाः सद्य एव उपलभ्यन्ते ।

कार्यक्रमाः कार्यकलापाश्च:


विद्यापीठे अनेके पाठ्येतरकार्यक्रमा: आयोज्यन्ते । पक्षे सकृत् प्रादोषिकसभा: विभागत्रये भवन्ति। अत्र छात्रा: सम्भाषणं, चर्चां, नाटकं, गानं, स्वरचितश्लोकपठनं च कुर्वन्ति । एतान् कार्यक्रमान् योजयितुं विद्यार्थिसङ्घ: स्थापित: । अपरा सभा पक्षे एकवारम् आयोज्यते यत्र विविधक्षेत्रेषु विद्वांस: छात्रान् उद्बोधयन्ति । काव्यशास्त्रविनोदाख्यः नूतनः कार्यक्रमः सद्यः आरब्धः, यत्र अध्यापकाः भागं वहन्ति ।
संवत्सरे द्विवारं शैक्षणिकस्पर्धा: क्रीडास्पर्धाश्च आयोज्यन्ते ।

प्रतिसंवत्सरं विद्यापीठच्छात्रा: राज्य-राष्ट्रिययस्तर भाषणस्पर्धासु श्लोकस्पर्धासु च भागं वहन्ति । २०१२ वर्षे, कर्णाटकराज्यस्य प्रतिनिधीभूतेषु विंशतिच्छात्रेषु त्रय: अस्माकं विद्यापीठस्था: । स्वर्णपदकद्वयम्, एकं रजतपदकं च प्राप्तवन्त:।

‘Sanskrit computational toolkit and Sanskrit-Hindi Machine Translation system’ योजना विद्यापीठस्य संशोधनाप्रकल्पेषु प्रमुखतमा । भारतसर्वकारस्य सूचनातन्त्रज्ञानविभागस्य साहाय्यम् अस्याः योजनायाः विद्यते । जनवरी-२०११ मासे आयोजितायां प्रथमविश्वसंस्कृतपुस्तकमेलायां ज्ञानगङ्गाप्रदर्शिन्यां च विद्यापीठच्छात्रै: एतद्योजनासम्बद्धा, तथा ई-ग्रन्थालयादिसंस्कृतसङ्गणकक्षेत्रसम्बद्धा च प्रदर्शिनी आयोजिता ।

सम्पर्कार्थः सङ्केतः



सङ्केतः
पूर्णप्रज्ञाविद्यापीठसंस्कृतस्नातकस्नातकोत्तराध्ययनकेन्द्रम्
पूर्णप्रज्ञानगरम्, कत्रिगुप्पे मुख्यमार्गः, बेङ्गगळूरु – ५६००२८

दूरभाषा: - ०८०-२६७९१२२५, ९४८३९६५१३९

इ-मेल्

मार्गः

गूगल् देशालेख्यं द्रष्टुम् अत्र नुदन्तु ।

Comments are closed.