स्वागतम्

 


Karnataka Samskrita Universityस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणिस्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणि

 

नूतनविषयाः


उद्घोषणानि



अधिकोद्घोषणानि …

वार्ताः



अधिकवार्ताः …

कार्यक्रमाः



सम्पूर्णकार्यक्रमाः …

सुभाषितम्



  • विद्या विवादाय धनं

    विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय |
    खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ||

     

    दुष्टानां विद्या विवादं प्रति कारणं भवति । धनेन तेषाम् अहङ्कारः वर्धते । ते स्वस्य शक्तिं परपीडनार्थम् उपयुञ्जते । सज्जनानां विषये तु विद्या ज्ञानस्य कारणं भवति । धनं दानस्य उपकारकं भवति । ते स्वशक्तिं दुर्बलरक्षणाय उपयुञ्जते ।

  • स्थानभ्रष्टा न शोभन्ते

    स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।

    इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ||

     

    दन्ताः, केशाः, दन्ताः, मनुष्याः च स्वस्थाने एव शोभन्ते, न तु अस्थाने । एतद् ज्ञात्व बुद्धिमान् मनुष्यः स्वस्थां परित्यज्य अस्थानं न गच्छति ।

  • अमन्त्रमक्षरं नास्ति

    अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।

    अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

     

    लोके सर्वाण्यपि अक्षराणि मन्त्ररूपाण्येव । सर्वासां मूलिकानाम् औषधीयगुणं भवत्येव । एवमेव सर्वेषां पुरुषाणां यत्किञ्चित् सामर्थ्यं भवति । किन्तु एतेषु विद्यमानां योग्यताम् अभिज्ञाय प्रोत्साहदायिनः, उपयोक्तारश्च नराः दुर्लभाः ।

  • सत्यं माता पिता ज्ञानं

    सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा |

    शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ||

     

    सत्यवचनमेव मम जननी, ज्ञानमेव जनकः, धर्मः सहोदरः, करुणा सुहृत्, शान्तिः भार्या, सहना सुतः । एवम् एते षड्गुणाः एव निजबान्धवाः ।

  • न देवा दण्डमादाय

    न देवा दण्डमादाय रक्षन्ति पशुपालवत् |
    यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ||

     

    देवाः यद्यपि सज्जनानां रक्षणं कर्तुम् इच्छन्ति, तथापि ते गोपालकः इव हस्ते दण्डं गृहीत्वा रक्षणार्थं न यतन्ते । यस्य रक्षणं कर्तुम् इच्छन्ति, तस्य सद्बुद्धिं प्रयच्छन्ति । बुद्धिम् उपयुज्यैव सः आत्मरक्षणं कर्तुं प्रभवति ।

  • वृत्तं यत्नेन संरक्षेद्

    वृत्तं यत्नेन संरक्षेद् वित्तमायाति याति च |
    अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ||

     

    मनुष्यः महता प्रयत्नेन शीलस्य रक्षणं कुर्यात्, न तु धनस्य । धनस्य आय-व्ययाः भवन्त्येव । धने नष्टेऽपि पुनः सम्पादयितुं शक्यम् । किन्तु नष्टं शीलं पुनः सम्पादयितुं न शक्यते । शीलहीनः पुरुषः हतप्राय एव ।


Comments are closed.