Monthly Archives: January 2012

सत्यं माता पिता ज्ञानं

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा |
शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ||

सत्यवचनमेव मम जननी, ज्ञानमेव जनकः, धर्मः सहोदरः, करुणा सुहृत्, शान्तिः भार्या, सहना सुतः । एवम् एते षड्गुणाः एव निजबान्धवाः ।

अमन्त्रमक्षरं नास्ति नास्ति

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

लोके सर्वाण्यपि अक्षराणि मन्त्ररूपाण्येव । सर्वासां मूलिकानाम् औषधीयगुणं भवत्येव । एवमेव सर्वेषां पुरुषाणां यत्किञ्चित् सामर्थ्यं भवति । किन्तु एतेषु विद्यमानां योग्यताम् अभिज्ञाय प्रोत्साहदायिनः, उपयोक्तारश्च नराः दुर्लभाः ।

न देवा दण्डमादाय

न देवा दण्डमादाय रक्षन्ति पशुपालवत् |
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ||

देवाः यद्यपि सज्जनानां रक्षणं कर्तुम् इच्छन्ति, तथापि ते गोपालकः इव हस्ते दण्डं गृहीत्वा रक्षणार्थं न यतन्ते । यस्य रक्षणं कर्तुम् इच्छन्ति, तस्य सद्बुद्धिं प्रयच्छन्ति । बुद्धिम् उपयुज्यैव सः आत्मरक्षणं कर्तुं प्रभवति ।

यथा खरः चन्दनभारवाही

यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य |
एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढाः खरवद् वहन्ति ||

गर्दभः चन्दनकाष्ठानां भारं वहति चेदपि चन्दनस्य मूल्यं न जानाति, भारमेव अवगच्छति । एवं मूर्खाः बहूनि शास्त्राणि अधीत्य अपि तेषाम् अर्थम् अजानन्तः गर्दभ इव केवलं भारवाहिनः भवन्ति ।

विषादप्यमृतं ग्राह्यं बालादपि

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् |
अमित्रादपि सद्वृत्तम् अमेध्यादपि काञ्चनम् ||

विषेण मिश्रमपि अमृतं स्वीकारार्हं भवति । बालाः अपि उत्तमविचारं वदन्ति चेत् तत् स्वीकरणीयम् । शत्रोः अपि सद्व्यवहारं दृष्ट्वा शिक्षणीयम् । सुवर्णं मलिनं चेदपि तस्य मूल्यं न नश्यति ।

व्यायामात् लभते स्वास्थ्यं

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् |
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ||

व्यायामकरणेन आरोग्यं लभ्यते, आयुः वर्धते, बलं प्राप्यते, सुखं च भवति । मनुष्यस्य आरोग्यमेव परमं भाग्यम् । आरोग्यवान् पुरुष एव सर्वं साधयितुं शक्नोति ।

उत्साहो बलवानार्य नास्त्युत्साहात्परं

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् |
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||

उत्साहः अत्यन्तं प्रबलः । उत्साहापेक्षया प्रबलम् अन्यत् किमपि नास्ति । उत्साहवतः मनुष्यस्य इह असाध्यं किमपि न भवति ।

एकं विषरसं हन्ति

एकं विषरसं हन्ति शस्त्रेणैकश्च वध्यते |
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ||

विषम् एकस्मिन् समये एकस्यैव पुरुषस्य नाशं करोति, शस्त्रेणापि एक एव हन्यते । किन्तु दुष्टनिर्धाराः न केवलं राजानं, किन्तु तस्य देशं, जनांश्च पूर्णतः नाशयति । अतः राज्ञा निर्धारकरणे जागरूकेण भाव्यम् ।

अश्वस्य भूषणं वेगो

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् |
चातुर्यं भूषणं नार्या उद्योगो नरभूषणम् ||

अश्वः वेगेन शोभते । गजः मदेन शोभते । महिला चातुर्येण शोभते । मनुष्यः उद्योगेन शोभते ।

विद्या विवादाय धनं

विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय |
खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ||

दुष्टानां विद्या विवादं प्रति कारणं भवति । धनेन तेषाम् अहङ्कारः वर्धते । ते स्वस्य शक्तिं परपीडनार्थम् उपयुञ्जते । सज्जनानां विषये तु विद्या ज्ञानस्य कारणं भवति । धनं दानस्य उपकारकं भवति । ते स्वशक्तिं दुर्बलरक्षणाय उपयुञ्जते ।