विकृतिं नैव गच्छन्ति

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।
आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥

दुष्टैः सह सङ्गमात्रेण सज्जनाः विकृताः न भवन्ति । चन्दनवृक्षः महासर्पैः आवृतः चेदपि विषवृक्षो न भवति किल ।

Comments are closed.