पारितोषिकाणि

संस्कृतपाठशालानाम् ‘उत्तमसाधनापुरस्कार’ योजना

सम्प्रति कर्नाटकराज्ये त्रिशताधिकाः मानितसंस्कृतपाठशालाः कार्यरताः सन्ति । आसु पाठशालासु अधीयानाः छात्राः संस्कृतशिक्षणनिर्देशनालयेन प्रवर्त्यमानासु प्रथमा-काव्य-साहित्यपरीक्षासु उत्तीर्णा भवन्ति । आसु परीक्षासु अत्युत्तमं फलितांशं सम्प्राप्तवतीभ्यः पाठशालाभ्यः प्रोत्साहदानार्थम् इयं योजना आरब्धा ।

नियमाः

१. प्रथमा-काव्य-साहित्यपरीक्षासु अत्युत्तमफलितांशं प्राप्तवत्यः मानिताः पाठशालाः एव पुरस्कारार्हाः भवन्ति ।

२. राज्यस्य प्रत्येकस्मात् वलयात् (बेङ्गलूरु-मैसूरु-धारवाड-चित्रदुर्ग) तिसृभ्यः पाठशालाभ्यः साधनधारेण पुरस्काराः दीयन्ते ।

३. पुरस्कारः स्मरणिका-प्रशस्तिपत्रसहितः भवति ।

४. प्रतिवर्षं प्रत्येकतया प्रथमा-काव्य-साहित्यपरीक्षासु साधना परिगण्यते ।

५. यदि नैकासां पाठशालानां समानसाधना भवति, तर्हि यत्र छात्राणां संख्या अधिका सा पाठशाला पुरस्कारार्थं परिगण्यते । तथैव प्रथम-द्वितीयश्रेणीनां क्रमम् आधारीकृत्य पुरस्कारनिर्णयः भवति ।

६. संस्कृतशिक्षणनिर्देशनालयस्य सूचनानुगुणं पुरस्कारयोग्यानां पाठशालानां पट्टिका कुलपतिभिः अनुमोद्यते । एषः निर्णयः एव अन्तिमः ।

७. राज्यस्य चतुर्णामपि (बेङ्गलूरु-मैसूरु-धारवाड-चित्रदुर्ग) वलयानां प्रत्येकं त्रयः पुरस्काराः प्रदीयन्ते ।

८. पुरस्कारवितरणसमारोहे विजेत्रीभ्यः पाठशालाभ्यः सर्वे अध्यापकाः आहूयन्ते ।

२०१०-२०१२ वर्षे उत्तमसाधनापुरस्कारं प्राप्तवत्यः शालाः

Comments are closed.