स्पर्धाः

सर्वासु पाठशालासु प्रतिवर्षं गीताकण्ठपाठस्पर्धा, प्रबन्धः, भाषणम्, पठ्यवाचनम्, कथाकथनम् इत्यादिस्पर्धाः चाल्यन्ते । राज्यस्तरस्य स्पर्धाः अपि अधोनिर्दिष्टासु शीर्षिकासु प्रचलन्ति ।

(१)प्रथमाकक्ष्यायाः कृते स्पर्धाः

1.गीताकण्ठपाठः
2.कथाकथनम् (संसृतकथा)
3.पठ्यवाचनम् (संस्कृते पठनम्)

(२)काव्यकक्ष्यायाः कृते स्पर्धाः

1.कण्ठपाठः (कुमारसम्भवस्य पञ्चमः सर्गः)
2.प्रबन्धः (काव्यविषये)
3.भाषणम् (काव्यविषये)

(३)साहित्यकक्ष्यायाः कृते स्पर्धाः

1.कण्ठपाठः (अष्टाध्याय्याः प्रथमद्वितीयाध्यायौ तर्कसङ्ग्रहः शाब्दबोधः वा)
2.प्रबन्धः ( शास्त्रीये एकस्मिन् विषये)
3.भाषणम् ( शास्त्रीये एकस्मिन् विषये )

Comments are closed.