पुनश्चेतनशिबिराणि

कर्नाटकसंस्कृतविश्वविद्यालयः संस्कृतपाठशालायाः अध्यापकानां हितदृष्ट्या पुनश्चेतनशिबिराणि आयोजयति । अस्मिन् शिबिरे अनेके विद्वांसः स्वोपन्यासेन संस्कृताध्यापनकलां परिचाययन्ति । पाठ्यपुस्तकस्थविषयाणां सयुक्ति नूतनविधानैः बोधनक्रमस्य विषये विषयान्तरे च विचारविमर्शं चर्चां च कुर्वन्ति । एतैः शिबिरैः अध्यापकः स्वबोधनाकौशलं वर्धयितुम् अवकाशं प्राप्नोति ।

पुनश्चेतनशिबिराणां विषये इतोऽपि विषयान् ज्ञातुमत्र नुदन्तु

Comments are closed.